sanskrit project - 6th class sanskrit worksheet - 7th class sanskrit worksheet -8th class sanskrit worksheet- 9th class sanskrit worksheet 10th class sanskrit worksheet-11th class sanskrit worksheet -12th class sanskrit worksheet- sanskrit video- sanskrit songs- project in sanskrit - sanskrit google form - cbse-NCERT - DR AJAY - DR KAVITA- SANSKRIT TUTORIALS - SANSKRIT MATERIAL - CBSE SANSKRIT PROJECT
Friday 7 April 2023
Wednesday 21 September 2022
Friday 4 February 2022
Wednesday 2 February 2022
Thursday 27 January 2022
sanskrit project work /sanskrit ko vyavharbhasha banane me samasya tatha samadhan / saral samskrit / essay in sankrit /
संस्कृतं व्यवहारभाषां कर्तुं समस्याः
तत्समाधानं च
संस्कृतं निर्विवादरूपेण विश्वस्य उत्कृष्टा भाषा वर्तते यत्र
साहित्यस्य संस्कृतेश्च ज्ञाननिधिरपि राजते। संस्कृतं विश्वस्य
प्राचीनतमा सर्वोत्तमा वैज्ञानिकी च भाषा वर्तते । संस्कृतभाषा सम्पूर्णविश्वे
स्वसमृद्धव्याकरणकारणात् शब्दनिर्माणसामर्थ्यकारणाच्च प्रसिद्धा वर्तते।
सुप्रसिद्धसंस्थानासाद्वारा संगणकाय संस्कृतं सर्वोपयुक्तम् अंगीकृतम् तत्र
कारणञ्चैतस्य वैज्ञानिकत्वम्। संस्कृतस्य उपयोगित्वं महत्त्वञ्च सर्वैरपि
भाषाविद्भिः मुक्तकण्ठेन स्वीकृतम्।
संस्कृतभाषा न केवलं वैज्ञानिकी उत् विज्ञानमयी अपि वर्तते ।
सम्पूर्णस्वरतन्त्रस्य विकासाय,
बौद्धिक-विकासाय,
मानसिक-तनावदूरीकरणाय चानेकेऽपि देशाः अद्य प्राथमिककक्षारभ्य एव
संस्कृतं पाठयन्तः सन्ति। पुरा संस्कृतं व्यवहारभाषा आसीत्। संस्कृतमेका
सर्वाङ्गपूर्णा भाषा वर्तते। अतः अद्य आवश्यकता अस्ति यत् संस्कृतं पुन:
व्यवहारभाषा भवेद् येन सम्पूर्णराष्ट्रं चैकसूत्रात्मकं भविष्यति। परमस्मिन्
मार्गे काश्चन समस्याः सन्ति । तासां समस्यानां विवरणं समाधानञ्च बिन्दुश:
प्रस्तूयते ।
जनसामान्ये 'संस्कृतं वर्गविशेषस्य
धर्मविशेषस्य वा भाषा'
इति स्वीकृतिः - संस्कृतं वेदानाम् उपनिषदां
रामायणमहाभारतेत्यादीनाम् अनेकेषां धर्मग्रन्थानां भाषा वर्तते यतोहि तस्मिन् समये
व्यवहारभाषा संस्कृतम् आसीत्। पठनपाठनस्य कार्ये ब्राह्मणा: अधिकाः आसन् एतानि एव
कारणानि यत् संस्कृतविषये समाजे एषा भ्रान्तिः वर्तते यदेषा भाषा धर्मविशेषस्य
वर्गविशेषस्य वा भाषा वर्तते । एतस्मात् कारणात् जना: संस्कृतं मुक्तहृदयेन न
अंगीकुर्वन्ति। वस्तुतः संस्कृतं तु ज्ञानस्य, विज्ञानस्य, साहित्यस्य
च भाषा वर्तते । सर्वांगीणविकासे सहायकं संस्कृतं विश्वस्य ज्ञानकोषं वहति । अतः
आवश्यकता अस्ति संस्कृतविषयिका एषा भ्रान्ति: दूरीभवेत्। येन जनानां मनसि संस्कृतं
प्रति अनुरागः आत्मीयता च स्यात्।
मातृभाषारूपेण संस्कृतस्याभावः -
संस्कृतं प्राचीनकाले व्यवहारभाषा आसीत् अतः बालकाः आरम्भे मातृभाषारूपेण एव एतस्य
ज्ञानं प्राप्नुवन्ति स्म। परमिदानीं स्थितिर्भिन्ना दृश्यते। संस्कृतं जनानां
व्यवहारे नास्ति केवलं पुस्तकेषु वर्तते। यावद् ज्ञानं केवलं पुस्तकेषु भविष्यति
तावत् तस्य उपयोगित्वं नास्ति। यद्यपि केचन ग्रामा: संस्कृतग्रामाः सन्ति यथा
कर्नाटकप्रदेशस्य मत्तूरग्रामः। यत्र अद्यापि बालका: मातृदुग्धेन सहैव
संस्कृतशिक्षणं प्राप्नुवन्ति। परमेतेषां संख्या अतीव न्यूना वर्तते । तदर्थम्
अस्माभिः संस्कृतज्ञैरेव प्रयत्नः करणीयः। ये संस्कृतशिक्षका: संस्कृतज्ञातारश्च
सन्ति तैः स्वगृहे संस्कृतेन वार्तालाप: करणीयः येन बालकाः स्वयमेव सुगमतया
संस्कृतावबोधने सक्षमाः स्युः।
प्राथमिकस्तरेसंस्कृतपाठनस्य अभाव:-अद्यतनीये
युगे आंग्लस्य प्रचार प्रसारः अत्यधिकं वर्तते। जनाः बाल्यकालादेव स्वबालकान् आंग्लनिपुणान्
कर्तुम् इच्छन्ति। परं सर्वविधविकासे सहायकं संस्कृतं प्राथमिकस्तरे न पाठयन्ति।
प्राथमिकस्तरे संस्कृतपाठनस्याभाव-कारणात् बालकानां संस्कृते तथा गतिः न भवति।
संस्कृतं व्यवहारभाषां कर्तुं तस्य प्राथमिकस्तरं पाठनम् आवश्यकम्। संस्कृतं पठित्वा
बालकानां बौद्धिकविकासः मानसिकविकासश्च द्रुतगत्या भवति। अतः प्राथमिकस्तरे
संस्कृतपाठनस्य व्यवस्था कर्तव्या येन संस्कृतभाषा व्यवहारभाषा भवितुं शक्नुयात् ।
'संस्कृतं
कठिनम्' इति
पूर्वाग्रहः - संस्कृतं कठिनमिति जनानां मनसि एकः पूर्वाग्रहः वर्तते संस्कृतम्
अधीयानाः अपि जना: संस्कृतं कठिनमिति मत्वा सम्भाषणस्य प्रयासमपि न कुर्वन्ति। परं
वास्तविकता तु एषा वर्तते यत् कस्याः अपि भाषायाः रूपद्वयं भवति साहित्यिकं
व्यवहारिकञ्च। साहित्यिकं रूपं कलिष्टतरं भवितुं शक्नोति परं व्यवहारिकं रूपं
प्रायशः सरलं भवति। केवलं दशदिनानां अल्पकालिकप्रयासेन संस्कृतसम्भाषणस्य आरम्भः
कर्तुं शक्यते। केवलं संस्कृतं प्रति रुचिः अपेक्षते संस्कृतसम्भाषणस्य
दृढनिश्चयेन 'संस्कृतं
कठिनमिति' पूर्वाग्रहः
स्वयमेव दूरीभविष्यति ।
निष्कर्ष: - संस्कृतं व्यवहारभाषामार्गे
अनेकाः समस्याः सन्ति परं तासां समाधान सम्भवम् अस्ति। परं यत्र समस्या अस्ति तत्र
समाधानमपि भवति। केचन उत्साहीजना: काश्चन संस्थाश्च प्रत्येकस्मिन् स्तरे
प्रयासरताः सन्ति। प्रत्येकमपि समस्यां समाधातुं परिश्रमशीलाः प्रयन्ते ।
अस्माभिरपि स्वस्तरे तन्निमित्तं प्रयासः करणीयः। येन संस्कृतं पुनरपि
व्यवहार-भाषा स्यात् ।
Wednesday 26 January 2022
swachchh bharat abhiyan in sanskrit / sanskrit project work / स्वच्छ-भारत-अभियान / essay in sanskrit /
स्वच्छभारताभियानम्
उत्तमजीवनाय स्वच्छं पर्यावरणम् अनिवार्यम् अस्ति। अस्माकं
पूर्वजैः तथ्यमेतत् सम्यक्तया ज्ञातं व्यवहृतं चासीत्। परञ्च अधुना भौतिकतावादिनि
अस्मिन् युगे वस्तूनां पुनःप्रयोगाभावे, स्वच्छतां प्रति जागरुकतायाः अभावे, नगरीकरणस्य तीव्रप्रवाहे च पर्यावरणरक्षा स्वास्थ्यरक्षा च दुष्करी विद्यते।
एतद्दृष्ट्या जनान् स्वच्छतां प्रति प्रेरयितुम् समये-समये सामाजिकसंस्थाभिः
सर्वकारेण च विविधाः कार्यक्रमाः संचाल्यन्ते। स्थानीयप्रशासनम् एतदर्थं
नीतिनिर्माणं करोति। अस्मिन्नेव क्रमे केन्द्रसर्वकारेण 'स्वच्छभारताभियानम्' नाम्ना एकः बहुपक्षीय कार्यक्रमः आरब्धः।
स्वच्छभारताभियानम् - अभियानमेतत् भारतसर्वकारेण
आरब्धं राष्ट्रीयस्तरीयम् अभियानम् आसीत्। अस्य लक्ष्यं वीथीनां, मार्गाणां, निवासस्थानानां, सार्वजनिकस्थलानां च स्वच्छीकरणम् आसीत्। तद् अभियानम् 2014 तमे वर्ष अक्टूबरमासस्य द्वितीये दिनांके राष्ट्रपितुः
महात्मागान्धिनः जन्मदिनावसरे आरब्धम्, यतो हि स्वच्छभारतं श्री गान्धिनः अपि स्वप्नम् आसीत्। अस्य अभियानस्य एकम्
उद्देश्यं व्यक्तिगत-शौचालयानां सामुदायिक-शौचालयानां च निर्माणेन अगूढे स्थाने
शौचनिवृत्तेः समस्यायाः न्यूनीकरणं समापनं चासीत्। एतद् लक्ष्यं महात्मगान्धिनः
सार्धैकशतात् जन्मदिवसात् पूर्वम् अर्थात् 2 अक्टूबर 2019 त: पूर्व प्राप्तव्यम् आसीत्।
एतदर्थं सर्वकारेण अनेके कार्यक्रमाः अपि विभिन्नस्तरेषु आरब्धाः। प्रधानमंत्रिणा
श्री नरेन्द्र मोदिना एकादशजना: स्वच्छताराजदूतरूपेण चिह्निताः येषु सचिनतेंदुलकरः, योगगुरु: रामदेव: सलमानखानसदृशाः गणमान्याः नागरिकाः आसन्।
स्वच्छतायाः एतं लक्ष्यं प्राप्तुं द्विलक्षकोटिरुप्यकाणाम् अनुमानित: धनराशिः अपि
स्वीकृतः आसीत्। सर्वकारेण प्रशासनेन सहैव असर्वकारीय संस्थाभिरपि अस्य अभियानस्य
साफल्यार्थम् अत्यधिकं कार्यं कृतम्।
मम क्षेत्रे
स्वच्छभारताभियानस्य स्थितिः - अहं देहलीनगरस्य ग्रामीणक्षेत्रे
निवसामि। गतपञ्चवर्षेषु स्वच्छतायाः दृष्ट्या मम क्षेत्रे जनानां चिन्तने
कार्यशैल्यां च अत्यधिकं परिवर्तनम् आगतम्। पूर्वं जना: स्वास्थ्याय स्वच्छतां
कारणत्वेन न स्वीकुर्वन्ति स्म। एतस्मात् कारणात् जनाः विविधेभ्यः रोगेभ्यः
ग्रस्ताः भवन्ति स्म। इतोऽपि जनाः स्वच्छताकार्यं सर्वकारस्य एव दायित्वम् इति
चिन्तयन्ति स्म। परञ्च एतत् अस्य अभियानस्य साफल्यमेव यत् अनेन जनाः स्वच्छतां
प्रति जागरुकाः कृताः इदानीं ते स्वच्छाग्रहिणः सन्ति।
अस्मात् अभियानात् पूर्वं जनाः शौचालयस्य आवश्यकतामेव न
अंगीकुर्वन्ति स्म। एतस्मात् कारणात् विशेषतः महिलानां वृद्धानां च कृते अत्यधिकं
समस्या भवति स्म। परञ्च सर्वकारस्य प्रेरणेन आर्थिकसहयोगेन मम क्षेत्रे अधुना
प्रतिगृहं शौचालयः विद्यते। अनेनापि स्वच्छतायाः स्थितौ सकारात्मकपरिवर्तनम्
आगतम्। पूर्वम् अवकरसंग्रहणस्य समुचिता व्यवस्था नासीत्, अतः गृहस्थाः जनाः यत्र कुत्रापि समीपस्थे रिक्ते स्थाने
अवकरं क्षिपन्ति स्म। एतेन मशकजनिता: अनेके रोगा: जनान् पीडयन्ति स्म। परञ्च
इदानीम् अवकरसंग्रहणाय सर्वकारीयाणि यानानि प्रतिवीथीम् आयान्ति। अनेन कार्येण मम
क्षेत्रे स्वच्छतायाः स्थितौ अत्यधिकं परिवर्तनं जातम्।
सार्वजनिकस्थलानां स्थिति: - स्वच्छताभियानस्य प्रभावात्
अस्य क्षेत्रस्य सार्वजनिकानि स्थानानि इदानीम् अपेक्षाकृतरूपेण स्वच्छानि सन्ति।
अधुना लघु-लघु बालकाः अपि स्वच्छपर्यावरणं प्रति जागरुकाः। यतो हि एतदर्थं
विद्यालयेषु प्रशासनेन जगजागरणाय अनेके कार्यक्रमाः कृताः। छात्रैः विभिन्नासु
सम्बद्धप्रतियोगितासु सहभागिता कृता । नैका: शोभायात्रा: समायोजिताः, यासु छात्रैः सामाजिकाः जनाः प्रेरिताः। अस्य प्रेरणस्य
प्रभाव: छात्राणां गृहेषु समाजे च दृश्यते। सामाजिका: बालकाः च किमपि खादित्वा
पीत्वा वा तत्पात्रम् इतस्ततः न क्षिपन्ति प्रत्युत् अवकरकण्डोले एव क्षिपन्ति।
एतावन्ति सकारात्मकानि परिवर्तनानि सत्यपि स्वच्छताभियानस्य
अवरोधकरूपेण एका समस्या मम क्षेत्रे, दृश्यते। तदस्ति यत् स्वच्छताकार्याय नियुक्ताः कर्मचारिणः यदा कदाचिदपि
कार्यस्थगनं कुर्वन्ति। पृष्टे सति ते वदन्ति यत् अस्माकं वेतनं समुचितसमये न
प्रदीयते। अतः अस्माभिः प्रदर्शनं करणीयं भवति । अन्या एका समस्या
अवकर-निस्तारणस्य विद्यते। बहुधा उचितनिस्तारणाभावे अवकर: मार्गेषु वीथिषु च पतितः
दृश्यते। यदि एतयोः समस्ययोः निवारणं शीघ्रं भविष्यति तर्हि मम विश्वासः अस्ति यत्
मम क्षेत्रे सदैव स्वच्छतायाः उत्कृष्टा स्थितिः भविष्यति।
निष्कर्षः - स्वच्छभारताभियानकारणात् स्वच्छतायाः महत्त्वं प्रति जनानां
दृष्टिकोणे अत्यधिकं परिवर्तनं जातमस्ति । शनैः शनैः एषा जागरुकता वर्धिष्यते इति
मम विश्वासः।
संस्कृतशाला#sanskrittutorials
-
स्वच्छभारताभियानम् उत्तमजीवनाय स्वच्छं पर्यावरणम् अनिवार्यम् अस्ति। अस्माकं पूर्वजैः तथ्यमेतत् सम्यक्तया ज्ञातं व्यवहृतं चासीत्। परञ्च अ...