स्वच्छभारताभियानम्
उत्तमजीवनाय स्वच्छं पर्यावरणम् अनिवार्यम् अस्ति। अस्माकं
पूर्वजैः तथ्यमेतत् सम्यक्तया ज्ञातं व्यवहृतं चासीत्। परञ्च अधुना भौतिकतावादिनि
अस्मिन् युगे वस्तूनां पुनःप्रयोगाभावे, स्वच्छतां प्रति जागरुकतायाः अभावे, नगरीकरणस्य तीव्रप्रवाहे च पर्यावरणरक्षा स्वास्थ्यरक्षा च दुष्करी विद्यते।
एतद्दृष्ट्या जनान् स्वच्छतां प्रति प्रेरयितुम् समये-समये सामाजिकसंस्थाभिः
सर्वकारेण च विविधाः कार्यक्रमाः संचाल्यन्ते। स्थानीयप्रशासनम् एतदर्थं
नीतिनिर्माणं करोति। अस्मिन्नेव क्रमे केन्द्रसर्वकारेण 'स्वच्छभारताभियानम्' नाम्ना एकः बहुपक्षीय कार्यक्रमः आरब्धः।
स्वच्छभारताभियानम् - अभियानमेतत् भारतसर्वकारेण
आरब्धं राष्ट्रीयस्तरीयम् अभियानम् आसीत्। अस्य लक्ष्यं वीथीनां, मार्गाणां, निवासस्थानानां, सार्वजनिकस्थलानां च स्वच्छीकरणम् आसीत्। तद् अभियानम् 2014 तमे वर्ष अक्टूबरमासस्य द्वितीये दिनांके राष्ट्रपितुः
महात्मागान्धिनः जन्मदिनावसरे आरब्धम्, यतो हि स्वच्छभारतं श्री गान्धिनः अपि स्वप्नम् आसीत्। अस्य अभियानस्य एकम्
उद्देश्यं व्यक्तिगत-शौचालयानां सामुदायिक-शौचालयानां च निर्माणेन अगूढे स्थाने
शौचनिवृत्तेः समस्यायाः न्यूनीकरणं समापनं चासीत्। एतद् लक्ष्यं महात्मगान्धिनः
सार्धैकशतात् जन्मदिवसात् पूर्वम् अर्थात् 2 अक्टूबर 2019 त: पूर्व प्राप्तव्यम् आसीत्।
एतदर्थं सर्वकारेण अनेके कार्यक्रमाः अपि विभिन्नस्तरेषु आरब्धाः। प्रधानमंत्रिणा
श्री नरेन्द्र मोदिना एकादशजना: स्वच्छताराजदूतरूपेण चिह्निताः येषु सचिनतेंदुलकरः, योगगुरु: रामदेव: सलमानखानसदृशाः गणमान्याः नागरिकाः आसन्।
स्वच्छतायाः एतं लक्ष्यं प्राप्तुं द्विलक्षकोटिरुप्यकाणाम् अनुमानित: धनराशिः अपि
स्वीकृतः आसीत्। सर्वकारेण प्रशासनेन सहैव असर्वकारीय संस्थाभिरपि अस्य अभियानस्य
साफल्यार्थम् अत्यधिकं कार्यं कृतम्।
मम क्षेत्रे
स्वच्छभारताभियानस्य स्थितिः - अहं देहलीनगरस्य ग्रामीणक्षेत्रे
निवसामि। गतपञ्चवर्षेषु स्वच्छतायाः दृष्ट्या मम क्षेत्रे जनानां चिन्तने
कार्यशैल्यां च अत्यधिकं परिवर्तनम् आगतम्। पूर्वं जना: स्वास्थ्याय स्वच्छतां
कारणत्वेन न स्वीकुर्वन्ति स्म। एतस्मात् कारणात् जनाः विविधेभ्यः रोगेभ्यः
ग्रस्ताः भवन्ति स्म। इतोऽपि जनाः स्वच्छताकार्यं सर्वकारस्य एव दायित्वम् इति
चिन्तयन्ति स्म। परञ्च एतत् अस्य अभियानस्य साफल्यमेव यत् अनेन जनाः स्वच्छतां
प्रति जागरुकाः कृताः इदानीं ते स्वच्छाग्रहिणः सन्ति।
अस्मात् अभियानात् पूर्वं जनाः शौचालयस्य आवश्यकतामेव न
अंगीकुर्वन्ति स्म। एतस्मात् कारणात् विशेषतः महिलानां वृद्धानां च कृते अत्यधिकं
समस्या भवति स्म। परञ्च सर्वकारस्य प्रेरणेन आर्थिकसहयोगेन मम क्षेत्रे अधुना
प्रतिगृहं शौचालयः विद्यते। अनेनापि स्वच्छतायाः स्थितौ सकारात्मकपरिवर्तनम्
आगतम्। पूर्वम् अवकरसंग्रहणस्य समुचिता व्यवस्था नासीत्, अतः गृहस्थाः जनाः यत्र कुत्रापि समीपस्थे रिक्ते स्थाने
अवकरं क्षिपन्ति स्म। एतेन मशकजनिता: अनेके रोगा: जनान् पीडयन्ति स्म। परञ्च
इदानीम् अवकरसंग्रहणाय सर्वकारीयाणि यानानि प्रतिवीथीम् आयान्ति। अनेन कार्येण मम
क्षेत्रे स्वच्छतायाः स्थितौ अत्यधिकं परिवर्तनं जातम्।
सार्वजनिकस्थलानां स्थिति: - स्वच्छताभियानस्य प्रभावात्
अस्य क्षेत्रस्य सार्वजनिकानि स्थानानि इदानीम् अपेक्षाकृतरूपेण स्वच्छानि सन्ति।
अधुना लघु-लघु बालकाः अपि स्वच्छपर्यावरणं प्रति जागरुकाः। यतो हि एतदर्थं
विद्यालयेषु प्रशासनेन जगजागरणाय अनेके कार्यक्रमाः कृताः। छात्रैः विभिन्नासु
सम्बद्धप्रतियोगितासु सहभागिता कृता । नैका: शोभायात्रा: समायोजिताः, यासु छात्रैः सामाजिकाः जनाः प्रेरिताः। अस्य प्रेरणस्य
प्रभाव: छात्राणां गृहेषु समाजे च दृश्यते। सामाजिका: बालकाः च किमपि खादित्वा
पीत्वा वा तत्पात्रम् इतस्ततः न क्षिपन्ति प्रत्युत् अवकरकण्डोले एव क्षिपन्ति।
एतावन्ति सकारात्मकानि परिवर्तनानि सत्यपि स्वच्छताभियानस्य
अवरोधकरूपेण एका समस्या मम क्षेत्रे, दृश्यते। तदस्ति यत् स्वच्छताकार्याय नियुक्ताः कर्मचारिणः यदा कदाचिदपि
कार्यस्थगनं कुर्वन्ति। पृष्टे सति ते वदन्ति यत् अस्माकं वेतनं समुचितसमये न
प्रदीयते। अतः अस्माभिः प्रदर्शनं करणीयं भवति । अन्या एका समस्या
अवकर-निस्तारणस्य विद्यते। बहुधा उचितनिस्तारणाभावे अवकर: मार्गेषु वीथिषु च पतितः
दृश्यते। यदि एतयोः समस्ययोः निवारणं शीघ्रं भविष्यति तर्हि मम विश्वासः अस्ति यत्
मम क्षेत्रे सदैव स्वच्छतायाः उत्कृष्टा स्थितिः भविष्यति।
निष्कर्षः - स्वच्छभारताभियानकारणात् स्वच्छतायाः महत्त्वं प्रति जनानां
दृष्टिकोणे अत्यधिकं परिवर्तनं जातमस्ति । शनैः शनैः एषा जागरुकता वर्धिष्यते इति
मम विश्वासः।
संस्कृतशाला#sanskrittutorials